माँ भुवनेश्वरी कवच - Ma Bhuvneshwari Kavach
देव्युवाच ।
देवेश भुवनेश्वर्या या या विद्याः प्रकाशिताः ।
श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि साम्प्रतम् ॥ १ ॥
त्रैलोक्यमङ्गलं नाम कवचं यत्पुरोदितम् ।
कथयस्व महादेव मम प्रीतिकरं परम् ॥ २ ॥
ईश्वर उवाच ।
शृणु पार्वति वक्ष्यामि सावधानावधारय ।
त्रैलोक्यमङ्गलं नाम कवचं मन्त्रविग्रहम् ॥ ३ ॥
सिद्धविद्यामयं देवि सर्वैश्वर्यप्रदायकम् ।
पठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ॥ ४ ॥
[ त्रैलोक्यमङ्गलस्यास्य कवचस्य ऋषिश्शिवः ।
छन्दो विराट् जगद्धात्री देवता भुवनेश्वरी ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ]
ह्रीं बीजं मे शिरः पातु भुवनेशी ललाटकम् ।
ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनम् ॥ १ ॥
श्रीं पातु दक्षकर्णं मे त्रिवर्णाख्या महेश्वरी ।[त्रिवर्णात्मा]
वामकर्णं सदा पातु ऐं घ्राणं पातु मे सदा ॥ २ ॥
ह्रीं पातु वदनं देवि ऐं पातु रसनां मम ।
वाक्पुटं च त्रिवर्णात्मा कण्ठं पातु पराम्बिका ॥ ३ ॥
श्रीं स्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा ।
क्लीं करौ त्रिपुटा पातु त्रिपुरैश्वर्यदायिनी ॥ ४ ॥ [त्रिपुटेशानि]
ओं पातु हृदयं ह्रीं मे मध्यदेशं सदाऽवतु ।
क्रौं पातु नाभिदेशं मे त्र्यक्षरी भुवनेश्वरी ॥ ५ ॥
सर्वबीजप्रदा पृष्ठं पातु सर्ववशङ्करी ।
ह्रीं पातु गुह्यदेशं मे नमो भगवती कटिम् ॥ ६ ॥
माहेश्वरी सदा पातु सक्थिनी जानुयुग्मकम् ।
अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् ॥ ७ ॥
सप्तदशाक्षरी पायादन्नपूर्णात्मिका परा ।
तारं माया रमाकामः षोडशार्णा ततः परम् ॥ ८ ॥
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा ।
तारं दुर्गेयुगं रक्षेत् स्वाहेति च दशाक्षरी ॥ ९ ॥
जयदुर्गा घनश्यामा पातु मां सर्वतो मुदा ।
मायाबीजादिका चैषा दशार्णा च परा तथा ॥ १० ॥
उत्तप्तकाञ्चनाभासा जयदुर्गाऽऽननेऽवतु ।
तारं ह्रीं दुं च दुर्गायै नमोऽष्टार्णात्मिका परा ॥ ११ ॥
शङ्खचक्रधनुर्बाणधरा मां दक्षिणेऽवतु ।
महिषामर्दिनी स्वाहा वसुवर्णात्मिका परा ॥ १२ ॥
नैरृत्यां सर्वदा पातु महिषासुरनाशिनी ।
माया पद्मावती स्वाहा सप्तार्णा परिकीर्तिता ॥ १३ ॥
पद्मावती पद्मसंस्था पश्चिमे मां सदाऽवतु ।
पाशाङ्कुशपुटे माये ह्रीं परमेश्वरि स्वाहा ॥ १४ ॥
त्रयोदशार्णा ताराद्या अश्वारुढाऽनलेऽवतु ।
सरस्वती पञ्चशरे नित्यक्लिन्ने मदद्रवे ॥ १५ ॥
स्वाहारव्यक्षरी विद्या मामुत्तरे सदाऽवतु ।
तारं माया तु कवचं खे रक्षेत्सततं वधूः ॥ १६ ॥
ह्रूं क्षं ह्रीं फट् महाविद्या द्वादशार्णाखिलप्रदा ।
त्वरिताष्टाहिभिः पायाच्छिवकोणे सदा च माम् ॥ १७ ॥
ऐं क्लीं सौः सततं बाला मूर्धदेशे ततोऽवतु ।
बिन्द्वन्ता भैरवी बाला भूमौ च मां सदाऽवतु ॥ १८ ॥
इति ते कथितं पुण्यं त्रैलोक्यमङ्गलं परम् ।
सारं सारतरं पुण्यं महाविद्यौघविग्रहम् ॥ १९ ॥
अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः ।
इन्द्राद्याः सकला देवाः पठनाद्धारणाद्यतः ॥ २० ॥
सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।
पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्सकृत् ॥ २१ ॥
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात् ।
प्रीतिमन्योऽन्यतः कृत्वा कमला निश्चला गृहे ॥ २२ ॥
वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा त्रैलोक्यमङ्गलाभिधम् ॥ २३ ॥
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ २४ ॥
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूत्वा वन्ध्यापि लभते सुतम् ॥ २५ ॥
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ।
एतत्कवचमज्ञात्वा यो जपेद्भुवनेश्वरीम् ।
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ २६ ॥
इति श्रीरुद्रयामले तन्त्रे देवीश्वर संवादे त्रैलोक्यमङ्गलं नाम भुवनेश्वरीकवचं समाप्तम् ।